मीन लग्न के जातक धन-समृद्धि के लिए करें यह कवच के पाठ

मीन लग्न के जातकों की कुण्डली में मंगल धन एवं भाग्य भाव का स्वामी होता है। अतः इस लग्न के जातकों को धन एवं भाग्य वृद्धि के लिए मंगल कवच का पाठ प्रतिदिन करना चाहिए।

।। मंगलकवचम्।।

अस्य श्रीअंगारक कवचस्तोत्रमन्त्रस्य कश्यप-ऋषिः,
अनुष्टुप्छन्दः, अंगारको देवता भौमप्रीत्यर्थं जपे विनियोगः ।

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद् वरदः प्रशान्त ।।1।।

अंगारक शिरो रक्षेन् मुखं वै धरणीसुतः ।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ।।2।।

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ।।3।।

वक्षः पातु वरांगश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ।।4।।

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ।।5।।

य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूत-प्र्रेत-पिशाचानां नाशनं सर्वसिद्धिदम् ।।6।।

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्ति-मुक्तिप्रदं नृणां सर्व-सौभाग्य-वर्धनम् ।

रोगबन्धविमोक्षं च सत्यमेतत्र संशय ।।7।।

पंचमेश चन्द्रमा:- मीन लग्न के जातकों के कुण्डली में चन्द्रमा पाचवें भाव का स्वामी होता है। अतः इस लग्न के जातकों को धन-समृद्धि के लिए प्रतिदिन चन्द्र कवच का पाठ करना चाहिए।

।।चन्द्रकवचम्।।

अस्य श्री चन्द्रकवचस्तोत्रमन्त्रस्य गौतम-ऋषिः, अनुष्टुप्-छनदः,
श्री चन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः ।

स्मं चतुर्भुजं वन्दे केयू-रमुकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शंकरस्य च भूषणम्

एवं ध्यात्वा जपेत्रित्यं शशिनः कवचं शुभम् ।
शशी पातु शिरोदेशं भालं पातु कलानिधिः

चक्षुषी चन्द्रमा पातु श्रुती पातु निशापतिः ।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः

पातु कण्ठं च मे सोमः स्कन्धे जवातृकस्तथा ।
करौ सुधाकरः पातु वक्षः पातु निशाकरः

हृदयं पातु मे चन्द्रो नाभिं शंकरभूषणः ।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः

उरु तारापतिः पातु मृगांको जानुनी सदा ।
अब्धिजः पातु में जङ्घें पातु पादौ विधुः सदा

सर्वाण्यन्यानि चांगानि पातु चन्द्रोऽखिलं वपुः
एतद्धि कवचं दिव्यं भुक्ति-मुक्ति-प्रदायकम्
यः पठेच्छृणुयाद् वाऽपि सर्वत्र विजयी भवेत्

69 Views